|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.325. अध्यायः 325
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति सुतभाजनकसंवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-325-0x(6523)(78520)
अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम।
कः प्राप्तो भूपतिः सिद्धिं मोक्षतत्त्वं वदस्व मे॥ 12-325-1(78521)
संन्यस्यते यथाऽत्माऽयं व्यक्तस्यात्मा यथा च यत्।
परं मोक्षस्य यच्चापि तन्मे ब्रूहि पितामह॥ 12-325-2(78522)
भीष्म उवाच। 12-325-3x(6524)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
जनकस्य च संवादं सुलभायाश्च भारत॥ 12-325-3(78523)
संन्यासफलिकः कश्चिद्बभूव नृपतिः पुरा।
मैथिलो जनको नाम धर्मध्वज इति श्रुतः॥ 12-325-4(78524)
स वेदे मोक्षशास्त्रे च स्वे च शास्त्रे कृतश्रमः।
इन्द्रियाणि समाधाय शशास वसुधामिमाम्॥ 12-325-5(78525)
तस्य वेदविदः प्राज्ञाः श्रुत्वा तां साधुवृत्तताम्।
लोकेषु स्पृहयन्त्यन्ये पुरुषाः पुरुषेश्वरम्॥ 12-325-6(78526)
अथ धर्मयुगे तस्मिन्योगधर्ममनुष्ठिता।
महीमनुचचारैका सुलभा नाम भिक्षुकी॥ 12-325-7(78527)
तया जगदिदं कृत्स्नमटन्त्या मिथिलेश्वरः।
तत्रतत्र श्रुतो मोक्षे कथ्यमानस्त्रिदण्डिभिः॥ 12-325-8(78528)
साऽतिसूक्ष्मां कथां श्रुत्वा तथ्यं नेति ससंशया।
दर्शने जातसंकल्पा जनकस्य बभूव ह॥ 12-325-9(78529)
तत्र सा विप्रहायाऽथ पूर्वरूपं हि योगतः।
अबिभ्रदनवद्याङ्गी रूपमन्यदनुत्तमम्॥ 12-325-10(78530)
चक्षुनिंमेषमात्रेण लध्वस्त्रगतिगामिनी।
विदेहानां पुरीं सुभ्रूर्जगाम कमलेक्षणा॥ 12-325-11(78531)
सा प्राप्य मिथिलां रम्यां समृद्धजनसंकुलाम्।
भैक्ष्यचर्यापदेशेन ददर्श मिथिलेश्वरम्॥ 12-325-12(78532)
राजा तस्याः परं दृष्ट्वा सौकुमार्यं पुनस्तदा।
केयं कस्य कुतो वेति बभूवागतविस्मयः॥ 12-325-13(78533)
ततोस्याः स्वागतं कृत्वा व्यादिश्य च वरासनम्।
पूजितां पादशौचेन वरान्नेनाप्यतर्पयत्॥ 12-325-14(78534)
अथ भुक्तवतीं प्रीतां राजा तां मन्त्रिभिर्वृतः।
सर्वभाष्यविदां मध्ये चोदयामास भिक्षुकीम्॥ 12-325-15(78535)
सुलभा त्वस्य धर्मेषु मुक्तो नेति ससंशया।
सत्वं सत्वेन योगज्ञा प्रविष्टाऽभून्महीपते॥ 12-325-16(78536)
नेत्राभ्यां नेत्रयोरस्य रश्मीन्संयोज्य रश्मिभिः।
सा स्म तं चोदयिष्यन्ती योगबन्धैर्बबन्ध ह॥ 12-325-17(78537)
जनकोप्युत्स्मयन्राजा भावमस्या विशेषयन्।
प्रतिजग्राह भावेन भावमस्या नृपोत्तम॥ 12-325-18(78538)
तदेकस्मिन्नधिष्ठाने संवादः श्रूतयामयम्।
छत्रादिषु विमुक्तस्य मुक्तायाश्च त्रिदण्डकैः॥ 12-325-19(78539)
जनक उवाच। 12-325-20x(6525)
भगवत्याः क्व चर्येयं कृता क्व च गमिष्यसि।
कस्य च त्वं कुतो वेति पप्रच्छैनां महिपतिः॥ 12-325-20(78540)
श्रुते वयसि जातौ च सद्भावो नाधिगम्यते।
एष्वर्थेषूत्तरं तस्मात्प्रवेद्यं मत्समागमे॥ 12-325-21(78541)
छत्रादिषु विशेषेषु मुक्तं मां विद्धि तत्त्वतः।
सत्वां संवेत्तुमिच्छामि मानार्हा हि मताऽसिमे॥ 12-325-22(78542)
यस्माच्चैतन्मया प्राप्तं ज्ञानं वैशेषिकं पुरा।
यस्य नान्यः प्रवक्ताऽस्ति मोक्षे तमपि मे शृणु॥ 12-325-23(78543)
पराशरसगोत्रस्य वृद्धस्य सुमहात्मनः।
भिक्षोः पञ्चशिखस्याहं शिष्यः परमसंमतः॥ 12-325-24(78544)
साङ्ख्यज्ञाने च योगे च महीपालविधौ तथा।
त्रिविधे मोक्षधर्मोस्मिन्गताध्वा छिन्नसंशयः॥ 12-325-25(78545)
स यथा शास्त्रदृष्टेन मार्गेणेह परिभ्रमन्।
वार्षिकांश्चतुरो मासान्पुरा मयि सुखोषितः॥ 12-325-26(78546)
तेनाहं साङ्ख्यमुख्येन सुदृष्टार्थेन तत्त्वतः।
श्रावितस्त्रिविधं मोक्षं न च राज्याद्धि चालितः॥ 12-325-27(78547)
सोहं तामखिलां वृत्तिं त्रिविधां मोक्षसंहिताम्।
मुक्तरागश्चराम्येकः पदे परमके स्थितः॥ 12-325-28(78548)
वैराग्यं पुनरेतस्य मोक्षस्य परमो विधिः।
ज्ञानादेव च वैराग्यं जायते येन मुच्यते॥ 12-325-29(78549)
ज्ञानेन कुरुते यत्नं यत्नेन प्राप्यते महत्।
महद्द्वन्द्वप्रमोक्षाय सा सिद्धिर्या वयोतिगा॥ 12-325-30(78550)
सेयं परमिका सिद्धिः प्राप्ता निर्द्वन्द्वता मया।
इहैव गतमोहेन चरता मुक्तसङ्गिना॥ 12-325-31(78551)
यथा क्षेत्रं मृदुभूतमद्भिराप्लावितं तथा।
जनयत्यङ्कुरं कर्म नृणां तद्वत्पुनर्भवम्॥ 12-325-32(78552)
यथा चोत्तापितं बीजं कपाले यत्रतत्र वा।
प्राप्याप्यङ्कुरहेतुत्वमबीजत्वान्न जायते॥ 12-325-33(78553)
तद्वद्भगवताऽनेन शिखाप्रोक्तेन भिक्षुणा।
ज्ञानं कृतमबीजं मे विषयेषु न जायते॥ 12-325-34(78554)
नामिरज्यति कस्मिंश्चिन्नानर्थे न परिग्रहे।
नाभिरज्यति चैतेषु व्यर्थत्वाद्रागरोषयोः॥ 12-325-35(78555)
यश्च मे दक्षिणं बाहुं चन्दनेन समुक्षयेत्।
सव्यं वाऽस्यापि यस्तक्षेत्समावेतावुभौ मम॥ 12-325-36(78556)
सुखी सोऽहमवाप्तार्थः समलोष्टाश्मकाञ्चनः।
मुक्तसङ्गः स्थितो राज्ये विशिष्टोऽन्यैस्त्रिदण्डिभिः॥ 12-325-37(78557)
मोक्षे हि त्रिविधा निष्ठा दृष्टाऽन्यैर्मोक्षवित्तमैः।
ज्ञानं लोकोत्तरं यच्च सर्वत्यागश्च कर्मणाम्॥ 12-325-38(78558)
ज्ञाननिष्ठां वदन्त्येके मोक्षशास्त्रविदो जनाः।
कर्मनिष्ठां तथैवान्ये यतयः सूक्ष्मदर्शिनः॥ 12-325-39(78559)
प्रहायोभयमप्येव ज्ञानं कर्म च केवलम्।
तृतीयेयं समाख्याता निष्ठा तेन महात्मना॥ 12-325-40(78560)
यमे च नियमे चैव कामे द्वेषे परिग्रहे।
माने दम्भे तथा स्नेहे सदृशास्ते कुटुम्बिभिः॥ 12-325-41(78561)
त्रिदण्डादिषु यद्यस्ति मोक्षो ज्ञानेन केनचित्।
छत्रादिषु कथं न स्यात्तुल्यहेतौ परिग्रहे॥ 12-325-42(78562)
येनयेन हि यस्यार्थः कारणेनेह कर्मणि।
तत्तदालम्बते सर्वद्रव्ये स्वार्थपरिग्रहे॥ 12-325-43(78563)
दोषदर्शी तु गार्हस्थ्ये यो व्रजत्याश्रमान्तरे।
उत्सृजन्परिगृह्णंश्च सोऽपि सङ्गान्न मुच्यते॥ 12-325-44(78564)
आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मके।
राजभिर्भिक्षुकास्तुल्या मुच्यन्ते केन हेतुना॥ 12-325-45(78565)
अथ सत्याधिपत्येऽपि ज्ञानेनैवेह केवलम्।
मुच्यन्ते किं न मुच्यन्ते पदे परमके स्थिताः॥ 12-325-46(78566)
काषायधारणं मौण्ड्यं त्रिविष्टब्धं कमण्डलुम्।
लिङ्गान्युत्पथभूतानि न मोक्षायेति मे मतिः॥ 12-325-47(78567)
यदि सत्यपि लिङ्गेऽस्मिञ्ज्ञानमेवात्र कारणम्।
निर्मोक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम्॥ 12-325-48(78568)
अथवा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः।
किं तदेवार्थसामान्यं छत्रादिषु न लक्ष्यते॥ 12-325-49(78569)
आकिञ्चन्ये न मोक्षोस्ति कैञ्चन्ये नास्ति बन्धनम्।
कैञ्चन्ये चेतरे चैव जन्तुर्ज्ञानेन मुच्यते॥ 12-325-50(78570)
तस्माद्धर्मार्थकामेषु तथा राज्यपरिग्रहे।
बन्धनायतनेष्वेषु विद्ध्यबन्धे पदे स्थितम्॥ 12-325-51(78571)
राज्यैश्वर्यमयः पाशः स्नेहायतनबन्धनः।
मोक्षाश्मनिशितेनेह च्छिन्नस्त्यागासिना मया॥ 12-325-52(78572)
सोहमेवं गतो मुक्तो जातास्थस्त्वयि भिक्षुकि।
अयथार्थं हि ते वर्णं वक्ष्यामि शृणु तन्मम॥ 12-325-53(78573)
सौकुमार्यं तथा रूपं वपुरग्र्यं तथा वयः।
तवैतानि समस्तानि नियमश्चेति संशयः॥ 12-325-54(78574)
यच्चाप्यननुरूपं ते लिङ्गस्यास्य विचेष्टितम्।
मुक्तोऽयं स्यान्न वेति स्याद्धर्षितो मत्परिग्रहः॥ 12-325-55(78575)
न च कामसमायुक्ते युक्तेऽप्यस्ति त्रिदण्डके।
न रक्ष्यते त्वया चेदं न मुक्तस्यास्ति गोपना॥ 12-325-56(78576)
मत्पक्षसंश्रयाच्चायं शृणु यस्ते व्यतिक्रमः।
आश्रयन्त्याः स्वभावेन मम पूर्वपरिग्रहम्॥ 12-325-57(78577)
प्रवेशस्ते कृतः केन मम राष्ट्रे पुरेपि वा।
कस्य वा सन्निकर्षात्त्वं प्रविष्टा हृदयं मम॥ 12-325-58(78578)
वर्णप्रवरमुख्याऽसि ब्राह्मणी क्षत्रियस्त्वहम्।
नावयोरेकयोगोऽस्ति मा कृथा वर्णसंकरम्॥ 12-325-59(78579)
वर्तसे मोक्षधर्मेण त्वं गार्हस्थ्येऽहमाश्रमे।
अयं चापि सुकष्टस्ते द्वितीयाश्रमसंकरः॥ 12-325-60(78580)
सगोत्रां वाऽसगोत्रां वा न वेद त्वां न वेत्थ माम्।
सगोत्रमाविशन्त्यास्ते तृतीयो गोत्रसंकरः॥ 12-325-61(78581)
अथ जीवति ते भर्ता प्रोषितोप्यथवा क्वचित्।
अगम्या परभार्येति चतुर्थो धर्मसंकरः॥ 12-325-62(78582)
सा त्वमेतान्यकार्याणि कार्यापेक्षा व्यवस्यसि।
अविज्ञानेन वा युक्ता मिथ्याज्ञानेन वा पुनः॥ 12-325-63(78583)
अथवापि स्वतन्त्राऽसि स्वदोषेणेह केनचित्।
यदि किंचिच्छ्रुतं तेऽस्ति सर्वं कृतमनर्थकम्॥ 12-325-64(78584)
इदमन्यत्तृतीयं ये भावस्पर्शविघातकम्।
दुष्टायाऽलक्ष्यते लिङ्गं विवृण्वत्या प्रकाशितम्॥ 12-325-65(78585)
न मय्येवाभिसन्धिस्ते जयैषिण्या जये कृतः।
येयं मत्परिषत्कृत्स्ना चेतुमिच्छसि तामपि॥ 12-325-66(78586)
तथाऽर्हतस्ततश्च त्वं दृष्टिं स्वां प्रतिमुञ्चसि।
मत्पक्षप्रतिघाताय स्वपक्षोद्भवनाय च॥ 12-325-67(78587)
सा स्वेनामर्षजेन त्वमृद्धिमोहेन मोहिता।
भूयः सृजसि योगांस्त्वं विषामृतमिवैकताम्॥ 12-325-68(78588)
इच्छतोरत्र यो लाभः स्त्रीपुंसोरमृतोपमः।
अलाभश्चापि रक्तस्य सोपि दोषो विषोषमः॥ 12-325-69(78589)
मा त्याक्षीः साधु जानीष्व स्वशास्त्रमनुपालय।
कृतेयं हि विजिज्ञासा मुक्तो नेति त्वया मम॥ 12-325-70(78590)
एतत्सर्वं प्रतिच्छन्नं मयि नार्हसि गूहितम्।
सा यदि त्वं स्वकार्येण यद्यन्यस्य महीपतेः।
तत्त्वमत्र प्रतिच्छन्ना मयि नार्हसि गूहितम्॥ 12-325-71(78591)
न राजानं मृषा गच्छेन्न द्विजातिं कथंचन।
न स्त्रियं स्त्रीगुणोपेतां हन्युर्ह्येते मृषागताः॥ 12-325-72(78592)
राज्ञां हि बलमैश्वर्यं ब्रह्म ब्रह्मविदां बलम्।
रूपयौवनसौभाग्यं स्त्रीणां बलमनुत्तमम्॥ 12-325-73(78593)
अत एतैर्बलैरेव बलिनः स्वार्थमिच्छता।
आर्जवेनाभिगन्तव्या विनाशाय ह्यनार्जवम्॥ 12-325-74(78594)
सा त्वं जातिं श्रुतं वृत्तं भावं प्रकृतिमात्मनः।
कृत्यमागमने चैव वक्तुमर्हसि तत्त्वतः॥ 12-325-75(78595)
भीष्म उवाच। 12-325-76x(6526)
इत्येतैरसुखैर्वाक्यैरयुक्तैरसमञ्जसैः।
प्रत्यादिष्टा नरेन्द्रेण सुलभा न व्यकम्पत॥ 12-325-76(78596)
उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना।
ततश्चारुतरं वाक्यं प्रचक्रामाथ भाषितुम्॥ 12-325-77(78597)
सुलभोवाच। 12-325-78x(6527)
नवभिर्नवभिश्चैव दोषैर्वाग्बुद्धिदूषणैः।
अपेतमुपपन्नार्थमष्टादशगुणान्वितम्॥ 12-325-78(78598)
सौक्ष्म्यं साङ्ख्यक्रमौ चोभौ निर्णयः सप्रयोजनः।
पञ्चैतान्यर्थजातानि वाक्यमित्युच्यते नृप॥ 12-325-79(78599)
एषामेकैकशोऽर्थानां सौक्ष्म्यादीनां स्वलक्षणम्।
शृणु संसार्यमाणानां पदार्थपदवाक्यतः॥ 12-325-80(78600)
ज्ञानं ज्ञेयेषु भिन्नेषु यदा भेदेन वर्तते।
तत्रातिशयिनी बुद्धिस्तत्सौक्ष्म्यमिति वर्तते॥ 12-325-81(78601)
दोषाणां च गुणानां च प्रमाणं प्रविभागतः।
कंचिदर्थमभिप्रेत्य सा सङ्ख्येत्युपधार्यताम्॥ 12-325-82(78602)
इदं पूर्वमिदं पश्चाद्वक्तव्यं यद्विवक्षितम्।
क्रमयोगं तमप्याहुर्वाक्यं वाक्यविदो जनाः॥ 12-325-83(78603)
धर्मकामार्थमोक्षेषु प्रतिज्ञाय विशेषतः।
इदं तदिति वाक्यान्ते प्रोच्यते स विनिर्णयः॥ 12-325-84(78604)
इच्छाद्वेषभवैर्दुःखैः प्रकर्षो यत्र जायते।
तत्र या नृपते वृत्तिस्तत्प्रयोजनमिष्यते॥ 12-325-85(78605)
तान्येतानि यथोक्तानि सौक्ष्म्यादीनि जनाधिप।
एकार्थसमवेतानि वाक्यं मम निशामय॥ 12-325-86(78606)
उपेतार्थमभिन्नार्थं न्यायवृत्तं न चाधिकम्।
नाश्लक्ष्णं न च संदिग्धं वक्ष्यामि परमं ततः॥ 12-325-87(78607)
न गुर्वक्षरसंयुक्तं पराङ्युखपदं न च।
नानृतं न त्रिवर्गेण विरुद्धं नाप्यसंस्कृतम्॥ 12-325-88(78608)
न न्यूनं नष्टशब्दं वा व्युत्क्रमाभिहितं न च।
सदोषमभिकल्पेन निष्कारणमहेतुकम्॥ 12-325-89(78609)
कामात्क्रोधाद्भयाल्लोभाद्दैन्याच्चानार्थकात्तथा।
ह्रीतोऽनुक्रोशतो मानान्न वक्ष्यामि कथंचन॥ 12-325-90(78610)
वक्ता श्रोता च वाक्यं च यदा त्वविकलं नृप।
स ममेति विवक्षायां तदा सोर्थः प्रकाशते॥ 12-325-91(78611)
वक्तव्ये तु यदा वक्ता श्रोतारमवमन्यते।
स्वार्थमाह परार्थं तत्तदा वाक्यं न रोहति॥ 12-325-92(78612)
अथ यः स्वार्थमुत्सृज्य परार्थं प्राह मानवः।
विशङ्का जायते तस्मिन्वाक्यं तदपि दोषवत्॥ 12-325-93(78613)
यस्तु वक्ता द्वयोरर्थमविरुद्धं प्रभाषते।
श्रोतुश्चैवात्मनश्चैव स वक्ता नेतरो नृप॥ 12-325-94(78614)
तदर्थवदिदं वाक्यमुपेतं वाक्यसंपदा।
`अविक्षिप्तमना राजन्नेकाग्रः श्रोतुमर्हसि॥ 12-325-95(78615)
काऽसि कस्य कुतो वेति त्वयाऽहमिति चोदिता।
तत्रोत्तरमिदं वाक्यं राजन्नेकमनाः शृणु॥' 12-325-96(78616)
यथा जतु च काष्ठं च पांसवश्चोदबिन्दवः।
सुश्लिष्टानि तथा राजन्प्राणिनामिह संभवः॥ 12-325-97(78617)
शब्दः स्पर्शो रसो रूपं गन्धः पञ्चेन्द्रियाणि च।
पृथगात्मा दशात्मानं संश्लिष्टा जतुकाष्ठवत्।
न चैषां चोदना काचिदस्तीत्येष विनिश्चयः॥ 12-325-98(78618)
एकैकस्येह विज्ञानं नास्त्यात्मनि तथा परे।
न वेद चक्षुश्चक्षुष्ट्वं श्रोत्रं नात्मनि वर्तते॥ 12-325-99(78619)
तथैव व्यभिचारेण न वर्तन्ते परस्परम्।
प्रश्लिष्टं च न जानन्ति यथाऽऽप इव पांवसः॥ 12-325-100(78620)
वाह्यानन्यानपेक्षन्ते गुणांस्तानपि मे शृणु।
रूपं चक्षुः प्रकाशश्च दर्शने हेतवस्त्रयः॥ 12-325-101(78621)
यथैवात्र तथाऽन्येषु ज्ञानज्ञेयेषु हेतवः।
ज्ञानज्ञेयांतरेतस्मिन्मनो नामापरो गुणः॥ 12-325-102(78622)
विचारयति येनायं निश्चये साध्वसाधुनी।
द्वादशस्त्वपरस्तत्र बुद्धिर्नाम गुणः स्मृतः।
येंन संशयपूर्वेषु बोद्धव्येषु व्यवस्यति॥ 12-325-103(78623)
अथ द्वादशके तस्मिन्सत्वं नामापरो गुणः।
महासत्वोऽल्पसत्वो वा जन्तुयेनानुमीयते॥ 12-325-104(78624)
क्षेत्रज्ञ इति चाप्यन्यो गुणस्तत चतुर्दशः।
ममायमिति येनायं मन्यते न ममेति च॥ 12-325-105(78625)
अथ पञ्चदशो राजन्गुणस्तत्रापरः स्मृतः।
पृथक्कालसमूहस्य सामग्र्यं तदिहोच्यते॥ 12-325-106(78626)
गुणस्त्वेकोऽपरस्तत्र संघात इति षोडशः।
आकृतिर्व्यक्तिरित्येतौ गुणो यस्मिन्समाश्रितौ॥ 12-325-107(78627)
सुखासुखे जन्ममृत्यू लाभालाभौ प्रियाप्रिये।
इति चैकोनर्विशोऽयं द्वन्द्वयोग इति स्मृतः॥ 12-325-108(78628)
ऊर्ध्वमेकोनर्विशत्या कालो नामापरो गुणः।
इतीमं विद्धि विंशत्या भूतानां प्रभवाप्ययम्॥ 12-325-109(78629)
विंशकश्चैव संघातो महाभूतानि पञ्च च।
सदसद्भवायोगौ तु गुणावन्यौ प्रकाशकौ॥ 12-325-110(78630)
इत्येवं विंशतिश्चैव गुणाः सप्त च ये स्मृताः।
विधिः शुक्रं बलं चेति त्रय एते गुणाः परे॥ 12-325-111(78631)
एवं विंशच्च दश च कलाः संख्यानतः स्मृताः।
समग्रा यत्र वर्तन्ते तच्छरीरमिति स्मृतम्॥ 12-325-112(78632)
अव्यक्तं प्रकृतिं त्वासां कलानां कश्चिदिच्छति।
व्यक्तं चासां तथैवान्यः स्थूलदर्शी प्रपश्यति॥ 12-325-113(78633)
अव्यक्तं यदि वा व्यक्तं द्वयं वाऽथ चतुष्टयम्।
प्रकृतिं सर्वभूतानां पश्यन्त्यध्यात्मचिन्तकाः॥ 12-325-114(78634)
सेयं प्रकृतिरव्यक्ता कलाभिर्व्यक्ततां गता।
ततोऽहं त्वं च राजेन्द्र चे चाप्यन्ते शरीरिणः। 12-325-115(78635)
विन्दुन्यासादयोऽवस्थाः शुक्रशोणितसंभवाः।
यासामेव निपातेन कललं नाम जायते॥ 12-325-116(78636)
कललाद्बुद्बुदोत्पत्तिः पेशी वा बुद्बुदात्स्मृता।
पेश्यास्त्वङ्गाभिनिर्वृत्तिर्नखरोमाणि चाङ्गतः॥ 12-325-117(78637)
संपूर्णे नवमे मासि जन्तोर्जातस्य मैथिल।
जायते नामरूपत्वं स्त्रीपुमान्वेति लिङ्गतः॥ 12-325-118(78638)
जातमात्रं तु तद्रूपं दृष्ट्वा ताम्रनखाङ्गुलि।
कौमारं रूपमापन्नं रूपवानुपलभ्यते॥ 12-325-119(78639)
कौमाराद्यौवनं चापि स्थाविर्यं चापि यौवनात्।
अनेन क्रमयोगेन पूर्वं पूर्वं न लभ्यते॥ 12-325-120(78640)
कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे।
वर्तते सर्वभूतेषु सौक्ष्म्यात्तु न विभाव्यते॥ 12-325-121(78641)
न चैषामप्ययो राजँल्लक्ष्यते प्रभवो न च।
अवस्थायामवस्थायां दीपस्येवार्चिषो गतिः॥ 12-325-122(78642)
तस्याप्येवंप्रक्तारस्य सदश्वस्येव धावतः।
अजस्रं सर्वलोकस्य कः कुतो वा न वा कुतः॥ 12-325-123(78643)
कस्येदं कस्य वा नेदं कुतो वेदं न वा कुतः।
संबन्धः कोऽस्ति भूतानां स्वैरप्यवयवैरिह॥ 12-325-124(78644)
यथाऽऽदित्यान्मणेश्चापि वीरुद्भ्यश्चैव पावकः।
जायन्त्येवं समुदयात्कलानामिह जन्तवः॥ 12-325-125(78645)
आत्मन्येवात्मनाऽऽत्मानं यथा त्वमनुपश्यसि।
एवमेवात्मनाऽऽत्मानमन्यस्मिन्किं न पश्यसि॥ 12-325-126(78646)
यद्यात्मनि परस्मिंश्च समतामध्यवस्यसि।
अथ मां काऽसि कस्येति किमर्थमनुपृच्छसि॥ 12-325-127(78647)
इदं मे स्यादिदं नेति द्वन्द्वैर्मुक्तस्य मैथिल।
काऽसि कस्य कुतो वेति वचनैः किं प्रयोजनम्॥ 12-325-128(78648)
रिपौ मित्रेऽथ मध्यस्थे विजये सन्धिविग्रहे।
कृतवान्यो महीपालः किं तस्मिन्मुक्तलक्षणम्॥ 12-325-129(78649)
त्रिवर्गं सप्तधा न्यस्तं यो न वेदेह कर्मसु।
सङ्गवान्यस्त्रिवर्गे च किं तस्मिन्मुक्तलक्षणम्॥ 12-325-130(78650)
प्रिये वाऽप्यप्रिये वाऽपि दुर्बले बलवत्यपि।
यस्य नास्ति समं चक्षुः किं तस्मिन्मक्तलक्षणम्॥ 12-325-131(78651)
तदयुक्तस्य ते मोक्षे योऽभिमानो भवेन्नृप।
सुहृद्भिः सन्निवार्यस्तेऽविरक्तस्येव भेषजम्॥ 12-325-132(78652)
तानि तान्यनुसंदृश्य सङ्गस्थानान्यरिंदम्।
आत्मनाऽऽत्मनि संपश्य किमन्यन्मुक्तलक्षणम्॥ 12-325-133(78653)
इमान्यन्यानि सूक्ष्माणि मोक्षमाश्रित्य केनचित्।
चतुरङ्गप्रवृत्तानि सङ्गस्थानानि मे शृणु॥ 12-325-134(78654)
य इमां पृथिवीं कृत्स्नामेकच्छत्रां प्रशास्ति ह।
एकमेव स वै राजा पुरमध्यावसत्युत॥ 12-325-135(78655)
तत्पुरे चैकमेवास्य गृहं यदधितिष्ठति।
गृहे शयनमप्येकं निशायां यत्र लीयते॥ 12-325-136(78656)
शय्यार्धं तस्य चाप्यत्र स्त्रीपूर्वमधितिष्ठति।
तदनेन प्रसङ्गेन फलेनाल्पेन युज्यते॥ 12-325-137(78657)
एवमेवोपभोगेषु भोजनाच्छादनेषु च।
गुणेष्वपरिमेयेषु निग्रहानुग्रहं प्रति॥ 12-325-138(78658)
परतन्त्रः सदा राजा स्वल्पे सोऽपि प्रसज्जते।
सन्धिविग्रहयोगे च कुतो राज्ञः स्वतन्त्रता॥ 12-325-139(78659)
स्त्रीषु क्रीडाविहारेषु नित्यमस्यास्वतन्त्रता।
मन्त्रे चामात्यसहिते कुतस्तस्य स्वतन्त्रता॥ 12-325-140(78660)
यदा ह्याज्ञापयत्यन्यांस्तत्रास्योक्ता स्वतन्त्रता।
अवशः कार्यते तत्र तस्मिंस्तस्मिन्गुणे स्थितः॥ 12-325-141(78661)
स्वप्नकामो न लभते स्वप्तुं कार्यार्थिभिर्जनैः।
शयने चाप्यनुज्ञातः सुप्त उत्थाप्यतेऽवशः॥ 12-325-142(78662)
स्नाह्यालभ पिब प्राश जुहुध्यगीन्यजेत्यपि।
वदस्व शृणु चापीति विवशः कार्यते परैः॥ 12-325-143(78663)
अभिगम्याभिगम्यैवं याचन्ते सततं नराः।
न चाप्युत्सहते दातुं वित्तरक्षी महाजनान्॥ 12-325-144(78664)
दाने कोशक्षयोऽप्यस्य वैरं चास्य प्रयच्छतः।
क्षणेनास्योऽपवर्तन्ते दोषा वैराग्यकारकाः॥ 12-325-145(78665)
प्राज्ञाञ्शूरांस्तथा वैद्यानेकस्थानपि शङ्कते।
भयमप्यनये राज्ञो यैश्च नित्यमुपास्यते॥ 12-325-146(78666)
तथा चैते प्रदुष्यन्ति राजन्ये कीर्तिता मया।
तथैवास्य भयं तेभ्यो जायते पश्य यादृशम्॥ 12-325-147(78667)
सर्वः स्वेस्वे गृहे राजा सर्वः स्वेस्वे गृहे गृही।
निग्रहानुग्रहौ कुर्वंस्तुल्यो जनक राजभिः॥ 12-325-148(78668)
पुत्रा दारास्तथैवात्मा कोशो मित्राणि संचयाः।
परैः साधारणा ह्येते तैस्तैरेवास्य हेतुभिः॥ 12-325-149(78669)
हतो देशः पुरं दग्धं प्रधानः कुञ्जरो मृतः।
लोकसाधारणेष्वेषु मिथ्याज्ञानेन तप्यते॥ 12-325-150(78670)
अमुक्तो मानसैर्दुःखैरिच्छाद्वेषप्रियोद्भवैः।
शिरोरोगादिभी रोगैस्तथैव विनिपातिभिः॥ 12-325-151(78671)
द्वन्द्वैस्तैस्तैरुपहतः सर्वतः परिशङ्कितः।
बहुभिः प्रार्थितं राज्यमुपास्ते गणयन्निशाः॥ 12-325-152(78672)
तदल्पसुखमत्यर्थं बहुदुःखमसारवत्।
तृणाग्निज्वलनप्रख्यं फेनबुद्बुदसंनिभम्॥ 12-325-153(78673)
को राज्यमभिपद्येत प्राप्य चोपशमं लभेत्।
ममेदमिति यच्चेदं पुरं राष्ट्रं च मन्यसे॥ 12-325-154(78674)
बलं कोशममात्यांश्च कस्यैतानि न वा नृप।
मित्रामात्यपुरं राष्ट्रं दण्डः कोशो महीपतिः॥ 12-325-155(78675)
`सप्ताङ्गश्चैष सङ्घातो राज्यमित्युच्यते नृप।'
सप्ताङ्गस्यास्य राज्यस्य त्रिदण्डस्येव तिष्ठतः।
अन्योन्यगुणयुक्तस्य कः केन गुणतोऽधिकः॥ 12-325-156(78676)
तेषुतेषु हि कालेषु तत्तदङ्गं विशिष्यते।
येन यत्सिध्यते कार्यं तत्प्राधान्याय कल्पते॥ 12-325-157(78677)
सप्ताङ्गश्चैव संघातस्त्रयश्चान्ये नृपोत्तम।
संभूय दशवर्गोऽयं भुङ्क्ते राज्यं हि राजवत्॥ 12-325-158(78678)
यश्च राजा महोत्साहः क्षत्रधर्मे रतो भवेत्।
स तुष्येद्दशभागेन ततस्त्वन्यो दशावरैः॥ 12-325-159(78679)
नास्त्यसाधारणो राजा नास्ति राज्यमराजकम्।
राज्येऽसति कुतो धर्मो धर्मेऽसति कुतः परम्॥ 12-325-160(78680)
योप्यत्र परमो धर्मः पवित्रं राजराज्ययोः।
पृथिवी दक्षिणा यस्य सोऽश्वमेधो न विद्यते॥ 12-325-161(78681)
साऽहमेतानि कर्माणि राजदुःखानि मैथिल।
समर्था शतशो वक्तुमथवाऽपि सहस्रशः॥ 12-325-162(78682)
स्वदेहे नाभिषङ्गो मे कुतः परपरिग्रहे।
न मामेवंविधां युक्तामीदृशं वक्तुमर्हसि॥ 12-325-163(78683)
ननु नाम त्वया मोक्षः कृत्स्नः पञ्चशिखाच्छ्रुतः।
सोपायः सोपनिषदः सोपसङ्गः सनिश्चयः॥ 12-325-164(78684)
तस्य ते मुक्तसङ्गस्य पाशानाक्रम्य तिष्ठतः।
छत्रादिषु विशेषेषु पुनः सङ्गः कथं नृप॥ 12-325-165(78685)
श्रुतं ते न श्रुतं मन्ये मृषा वाऽपि श्रुतं श्रुतम्।
अथवा श्रुतसंकाशं श्रुतमन्यच्छ्रुतं त्वया॥ 12-325-166(78686)
अथापीमासु संज्ञासु लौकिकीषु प्रतिष्ठसे।
अभिषङ्गावरोधाभ्यां बद्धस्त्वं प्राकृतो यथा॥ 12-325-167(78687)
सत्वेनानुप्रवेशो हि योऽयं त्वयि कृतो मया।
किं तवापकृतं तत्र यदि मुक्तोऽसि सर्वशः॥ 12-325-168(78688)
नियमो ह्येषु धर्मेषु यतीनां शून्यवासिता।
शून्यमावासयन्त्या च मया किं कस्य दूषितम्॥ 12-325-169(78689)
न पाणिभ्यां न बाहुभ्यां पादोरुभ्यां न चानघ।
न गात्राक्यवैरन्यैः स्पृशामि त्वां नराधिप॥ 12-325-170(78690)
कुले महति जातेन ह्रीमता दीर्घदर्शिना।
नैतत्सदसि वक्तव्यं सद्वाऽसद्वा मिथः कृतम्॥ 12-325-171(78691)
ब्राह्मणा गुरवश्चेमे तथा मान्या गुरूत्तमाः।
त्वं चाथ गुरुरप्येषामेवमन्योन्यगौरवम्॥ 12-325-172(78692)
तदेवमनुसंदृश्य वाच्यावाच्यं परीक्षता।
स्त्रीपुंसोः समवायोऽयं त्वया वाच्यो न संसदि॥ 12-325-173(78693)
यथा पुष्करपर्णस्थं जलं तत्पर्णसंस्थितम्।
तिष्ठत्यस्पृशती तद्वत्त्वपि वत्स्यामि मैथिल॥ 12-325-174(78694)
यदि चाद्य स्पृशन्त्या मे स्पर्शं जानासि कंचन।
ज्ञानं कृतमबीजं ते कथं तेनेह भिक्षुणा॥ 12-325-175(78695)
स गार्हस्थ्याच्च्युतश्च त्वं मोक्षं चानाप्य दुर्विदम्।
उभयोरन्तराले वै वर्तसे मोक्षवादिकः॥ 12-325-176(78696)
न हि मुक्तस्य मुक्तेन ज्ञस्यैकत्वपृथक्त्वयोः।
भावाभावसमायोगे जायते वर्णसंकरः॥ 12-325-177(78697)
वर्णाश्रमाः पृथक्त्वेन दृष्टार्थस्यापृथक्त्वतः।
नान्यदन्यदिति ज्ञात्वा नान्यदन्यत्र वर्तते॥ 12-325-178(78698)
पापौ कुण्डं तथा कुण्डे पयः पयसि मक्षिका।
आश्रिताश्रययोगेन पृथक्त्वेनाश्रिताः पुनः॥ 12-325-179(78699)
न तु कुण्डे पयोभावः पयश्चापि न मक्षिका।
स्वयमेवाश्रयन्त्येते भावा न तु पराश्रयम्॥ 12-325-180(78700)
पृथक्त्वादाश्रमाणां च वर्णान्यत्वे तथैव च।
परस्परपृथक्त्वाच्च कथं ते वर्णसंकरः॥ 12-325-181(78701)
नास्मि पर्णोत्तमा जात्या न वैश्या नावरा तथा।
तव राजन्सवर्णाऽस्मि शुद्धयोनिरविप्लुता॥ 12-325-182(78702)
प्रधानो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः।
कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम्॥ 12-325-183(78703)
द्रोणश्च शतशृङ्गश्च वक्रद्धारश्च पर्वतः।
मम सत्रेषु पूर्वेषां चिता मघवता सह॥ 12-325-184(78704)
साहं तस्मिन्कुले जाता भर्तर्यसति मद्विधे।
विनीता मोक्षधर्मेषु चराम्येका मुनिव्रतम्॥ 12-325-185(78705)
नास्मि सत्रप्रतिच्छन्ना न परस्वाभिमानिनी।
न धर्मसंकरकरी स्वधर्मेऽस्मि दृढव्रता॥ 12-325-186(78706)
नास्थिरा स्वप्रतिज्ञायां नासमीक्ष्य प्रवादिनी।
नासमीक्ष्यागता चेह त्वत्सकाशं जनाधिप॥ 12-325-187(78707)
मोक्षे ते भावितां बुद्धिं श्रुत्वाऽहं कुशलैषिणी।
तव मोक्षस्य चाप्यस्य जिज्ञासार्थमिहागता॥ 12-325-188(78708)
न वर्गस्था ब्रवीम्येतत्स्वपक्षपरपक्षयोः।
मुक्तो विमुच्यते यश्च शान्तौ यश्च न शाम्यति॥ 12-325-189(78709)
यथा शून्ये पुराऽगारे भिक्षुरेकां निशां वसेत्।
तथाऽहं त्वच्छरीरेऽस्मिन्निमां वत्स्यामि शर्वरीम्॥ 12-325-190(78710)
साऽहं मानप्रदानेन वागातिथ्येन चार्चिता।
सुप्ता सुशरणं प्रीता श्वो गमिष्यामि मैथिल॥ 12-325-191(78711)
भीष्म उवाच। 12-325-192x(6528)
इत्येतानि स वाक्यानि हेतुमन्त्यर्थवन्ति च।
श्रुत्वा नाधिजगौ राजा किंचिदन्यदतः परं॥ ॥ 12-325-192(78712)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चविंशत्यधिकत्रिशततमोऽध्यायः॥ 325॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-325-2 अव्ययस्य यथात्मा च व्यक्तस्यात्मा यथा च यदिति ध. पाठः॥ 12-325-4 संन्यासफलं सम्यग्दर्शनं तदस्यास्तीति संन्यासफलिकः॥ 12-325-5 स्वे शास्त्रे दण्डनीतौ॥ 12-325-7 अनुष्ठिता कर्तरिक्तः॥ 12-325-8 मोक्षे मोक्षशास्त्रे निष्णात इति शेषः॥ 12-325-9 नेति नवेति॥ 12-325-10 ततः सा विप्रभार्याश्च पूर्वरूपवियोगत इति ट. ड. पाठः॥ 12-325-11 लघु शीघ्रमस्रगत्या गच्छतीति सा। विदेहानां पदमिति ड. पाठः॥ 12-325-15 भाष्यविदां सूत्रार्थज्ञानां मध्ये। अथ भुक्तवती प्रीता राजानं मन्त्रिभिर्वृतमिति। चोदयामासभिक्षुकीति च. झ. पाठः॥ 12-325-16 सुलभाऽयं स्वधर्मेषु इति ध. पाठः॥ 12-325-18 भावमाशयमेनं मूकं करिष्यामीत्येवंरूपम्। विशेषयन्नभिभवन्॥ 12-325-20 भवत्याचक्ष्व वार्षेयं कुतः क्व च गमिष्यसि इति ड. थ. पाठः॥ 12-325-29 मोक्षस्य परमो निधिरिति ध. पाठः॥ 12-325-30 सा सिद्धिर्या च योगितेति थ. पाठः॥ 12-325-42 ज्ञानेन कस्यचिदिति झ. पाठः॥ 12-325-45 आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मकाः। राजानो भिक्षुकाचार्या मुच्यन्ते इति ड. थ. पाठः॥ 12-325-46 मुच्यन्ते सर्वपापेभ्यो देहे परमके स्थिता इति झ. पाठः॥ 12-325-47 लिङ्गान्यन्यार्थभूतानीति ट. ड. थ. पाठः॥ 12-325-49 छत्रादिषु न लभ्यत इति ट.ड. पाठः॥ 12-325-54 नचैतानि समस्तानीति ध. पाठः॥ 12-325-58 संनिसर्गात्त्वं इति ध. पाठः॥ 12-325-60 द्वितीयो वर्णसंकर इति ड. पाठः॥ 12-325-62 प्रेरिता तेन गच्छसीति ध. पाठः॥ 12-325-63 कार्यार्थज्ञा व्यवस्यसीति ध. पाठः॥ 12-325-65 तद्वक्तव्यं प्रकाशितमि ड. पाठः॥ 12-325-67 अर्हतः पूज्यान् उद्दिश्य॥ 12-325-70 माप्राक्षीरिति ध. पाठः॥ 12-325-87 नापेतार्थं न भिन्नार्थं नापवृत्तं न चाधिकमिति ड. पाठः॥ 12-325-89 न निष्ठानमहेतुकमिति ड. पाठः॥ 12-325-90 दैन्यादन्याय्यकात्तथेति ड. पाठः॥ 12-325-93 निःशङ्को जायते तस्मिन्निति ध. पाठः॥ 12-325-100 प्रश्लिष्टा नाभिजायन्ते यथाद्भिरिव पांसव इति ड. पाठः॥ 12-325-103 अथ त्रयोदशे तस्मिन्बुद्धिर्नाम गुणः स्मृत इति ध. पाठः॥ 12-325-106 पृथक्कलासमूहस्येति झ. पाठः॥ 12-325-111 विधिः शुद्धं बलं चेतीति ध. पाठः॥ 12-325-114 अव्यक्तां यदि वा व्यक्तां द्वयीमथ चतुष्टयीमिति ट. थ. पाठः॥ 12-325-122 न चैषामप्यथो राजन्निति ट. पाठः। न चासामप्यथो राजन्निति ड. पाठः॥ 12-325-128 इदं मे स्यादिदं चेति इति ड. थ. पाठः॥ 12-325-130 सप्तधा व्यस्तमिति ड. पाठः॥ 12-325-141 तस्मिंस्तस्मिन्क्षणे स्थित इति झ. पाठः॥ 12-325-151 तथैवाभिनियन्तृभिरिति झ. पाठः॥ 12-325-152 बहुप्रत्यर्थिकं राज्यमिति झ. ध. पाठः॥ 12-325-168 अङ्गनानुप्रवेशोऽपि इति ध. पाठः॥ 12-325-169 नियमो ह्येषु वर्णेष्विति झ. पाठः॥ 12-325-174 जलं तत्पत्रसंज्ञितमिति ध. पाठः। तत्पणंमस्पृशदिति झ. पाठः॥ 12-325-175 यदि वाप्यस्पृशन्त्या मे इति ट. ड. ध. पाठः॥ 12-325-176 मोक्षं चावाप्य दुर्लभमिति ड. थ. पाठः॥ 12-325-178 पृथक्त्वे च दृष्टास्यार्थाः पृथक्कृता इति ट. ड. पाठः॥ 12-325-184 द्रोणादयः पर्वता मम पूर्वेषआं सत्रेषु मघवता सह चिताश्चयने इष्टकास्थाने निवेशिता इत्यर्थः। चित्यां मघवता सहेति थ. पाठः॥ 12-325-185 भर्तर्यसति मद्गृहे इति ध. पाठः॥ 12-325-186 सत्रप्रतिच्छन्ना कपटसंन्यासिनी। न परस्वापहारिणीति झ. पाठः॥ 12-325-189 मुक्तो व्यायच्छते यश्चेति झ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|